“अहं कस्यास्मि?”
लेखक: डॉ. मदन चंद्र करन
इन्द्रप्रस्थस्य विशाल-प्रासादे, सायंकालीन तमिस्रा मृदुलदीपशिखाभिः आलोकिता आसीत्।
तत्र, एकान्त-कक्षे, द्रौपदी—याज्ञसेनी—शिलावत् निश्चलत्वेन उपविष्टा आसीत्।
नयनयोः प्रज्वलितोऽग्निः, अन्तःकरणे चञ्चलः प्रलय-समीरः, चित्ते केवलं एक एव प्रश्नः—
“किमर्थम्…?”
श्रुतं तया—अर्जुनेन सुभद्राया हरणं कृत्वा विवाहः कृतः।
सुभद्रा—वासुदेवस्य प्रिया भगिनी।
तस्याः मनसि संशय-तरङ्गाः उद्भूताः—
किं विना माधवस्य अनुमतिं एतत् संभवति?
किं स एव एतस्य लीलायाः सूत्रधारः?
किं सुभद्रां समीपं नयितुं, मां तु दूरं कर्तुं, एषः उपायः?
एवं चिन्तासु निमग्ना सा अन्तःकरणेन दह्यमाना आसीत्।
तस्मिन् क्षणे, कक्ष-द्वारे मन्दः शब्दः अभवत्।
अर्जुनः—गाण्डीवधारी—प्रविष्टः। विस्रस्त-केशः, अवनत-दृष्टिः, चञ्चल-मानसः।
द्रौपदी तस्य प्रति दृष्टिं न्यधात्—
सा दृष्टिः न केवलं पश्यति स्म, अपितु शर-समानैः तस्य हृदयं विदारयति स्म।
अर्जुनः शनैः समीपमागत्य, नतमस्तकः भूमौ उपविष्टः।
क्षणकालं मौनम्—परन्तु तदेव मौनं घोरतरं संवादम् आसीत्।
ततः स मन्दस्वरेण अवदत्—
“कृष्णे… त्वम् अग्निजा, तेजोमयी, अद्वितीया। त्वां प्राप्त्वा अहं धन्यः अभवम्।
किन्तु… तव अग्निः मां न शमयति, अपि तु मां दहति, शून्यं करोति।”
द्रौपद्याः नयनेषु क्षणमात्रं कम्पित-वेदना झलकि।
अर्जुनः पुनरुक्तवान्—
“त्वं केवलं नारी नासि—त्वं शक्तिः, देवत्वं च।
देव्यः पूज्यन्ते, न तु ताः आलिङ्ग्यन्ते यथा प्रेयसी।”
वातावरणं गम्भीरतरं जातम्।
“नरः इच्छति मृदुलां, सरलां, सदा मोहितां नारीम्—
यस्याः लोचनेषु केवलं प्रेम, यस्याः सान्निध्ये सर्वः क्लान्तिः विलीयते।
तव लोचने मां मोहितवन्ति, कृष्णे…
किन्तु तेषु नित्यं ज्वलन्तः स्फुलिङ्गाः मां भयभीतं कुर्वन्ति।”
तस्य कण्ठः कम्पितः—
“सुभद्रा तु भिन्ना अस्ति—सा सरलाऽस्ति, मृदुला च। तस्याः एषा माधुर्यता मां आकर्षितवती।”
द्रौपदी स्थाणुवत् अभवत्।
तस्याः यशः, गौरवम्, आत्माभिमानः—सर्वं तस्मिन् क्षणे भस्मीभूतम्।
सा शनैः उत्थाय, अर्जुनस्य समीपमागता, तस्य मुखं स्वहस्ताभ्यां उद्धृत्य, कम्पितस्वरेण पप्रच्छ—
“अहं तर्हि कस्यास्मि, पार्थ?”
अर्जुनः निरुत्तरः अभवत्।
सः नतमस्तकः तस्मात् कक्षात् निर्गतः।
द्रौपदी तत्रैव उपविष्टा—धूमायमान-अङ्गारवत्।
अकस्मात् तस्याः अन्तःकरणात् तीव्रः निनादः निर्गतः—
“अहं कस्यास्मि…?”
तस्मिन् एव क्षणे, वातायने कस्तूरी-सुगन्धः प्रसृतः।
दूरात् वंशी-निनादः श्रुतः।
सा नेत्रे निमील्य, स्वाञ्चलं हृदयेन आलिङ्ग्य स्थितवती।
तदा मधुरः, परिचितः स्वरः आकाशे प्रतिध्वनितः—
“उत्तिष्ठ, कृष्णे…”
वासुदेवस्य वाणी आसीत् सा।
“स्वयं पश्य—दर्पणे। त्वं सा नायिका, या सह कालः अपि इतिहासं रचयिष्यति।
त्वं न केवलं कस्यचित्—त्वं अनन्तस्य, कालस्य, अग्नेः च।”
द्रौपद्याः अश्रवः अविरलम् अपतन्—परन्तु तेषु न आसीत् दुःखम्, किन्तु नवचेतना।
कृष्णस्य स्वरः पुनरुक्तः—
“या अनन्तस्य भवति… सा मम एव भवति।”
द्रौपदी शनैः नेत्रे उन्मील्य, शान्त-तेजसा दीप्तिमती अभवत्।
उत्तरं तया प्राप्तम्—
“नाहं कस्यचित्… अहं स्वस्याः अस्मि।”
—oooXXooo—
![]()







